अस्माकं जालकेन्द्रे स्वागतम्॥
'संस्कृत-भाषायम् कोटिशः साधु-शब्दाः प्रायेण द्विसहस्रेभ्यः धातुभ्यः व्युत्पन्नाः' इति बहुप्रचलितं कथनं संस्कृत-वैयाकरणानाम् मध्ये। उदाहरणरूपेण रामः पठति इति एकं वाक्यं यदि स्वीकुर्मः, तर्हि रामः इति पदं रमुँ इति धातोः जातः तथा च पठति इति पदं पठँ इति धातोः जातः। इदानीं द्वौ प्रश्नौ मनसि सहजेण एव उत्पन्नौ -
- के एते द्विसहस्रः धातवः? सर्वेषां धातूनां आवलेः नाम धातुपाठ इति।
- पदानां धातूनां च मध्ये कः सम्बन्धः? पदानि कुतः व्युत्पन्नाः इति कथं ज्ञातव्यम्? तदर्थे व्याकरणशास्त्रस्य अष्टाध्यायी इति मूलग्रन्थस्य सूत्राणि प्रयुज्यम्।
रामः पठति इति उपरिदत्तमं तु एकं सरलं वाक्यम्। किन्तु लोके, शास्त्रे, ग्रन्थे, व्यवहारे च इदं सिद्धान्तं कथं सिद्ध्यते? के धातवः न्यूनप्रयुक्ताः? के च बहुप्रयुक्ताः? एतेषां प्रश्नानाम् उत्तराणि साधमन् अस्माकं लक्ष्यम्।
अयं प्रकल्पे वयं श्रीमद्भगवद्गीतायां प्रयुक्ताः सूत्राणि धातून् च ज्ञातुं प्रसक्ताः। इदं कार्यं पञ्चेषु सोपानेषु प्रकल्पितः
- सन्धि-विच्छेदः - पदानाम् मध्ये यः सन्धि कार्यं वर्तते तद्विभज्य ससूत्रं पदानां पृथक्-पृथक् प्रदर्शणम्। यथा अत्र 'पाण्डवास् च एव' इति पदानां पृथक्किकरणम्।
- सुबन्तानाम् रूपसिद्धिः - सुबन्तानाम् व्युत्पत्ति-प्रक्रियां ससूत्रं लेखनम्। यथा युयुत्सवः इति युयुत्सु प्रतिपदिकस्य प्रथमा-बहुवचनान्तं रूपम्।
- तिङन्तरूपसिद्धिः - क्रियापदानाम् व्युत्पत्तिं प्रतिपादनम्। यथा डुकृञ् + झ = अकुर्वत।
- समास विग्रहः - समासानाम् अर्थान् ससूत्रं स्थापनम्। यथा धर्म्मस्य क्षेत्रम् इति धर्मक्षेत्रम्।
- प्रातिपदिकानाम् व्युत्पत्तिः - प्रातिपतिकानाम् धातुमूलम् पर्यन्तम् विग्रहम् संस्थापनम्। यथा धृ + मन् = धर्म, क्षि + ष्ट्रन् = क्षेत्र।
सम्प्रति वयं प्रथमे सोपाने स्युः। गीतायाः आदिमानां त्रयाणां अध्यायानां श्लोकेषु प्रयुक्तानि पदानि पृथक्कृत्वा वामेन श्लोक सञ्चये (folder) दत्तानि। तत्र प्रत्येके श्लोके, पदानां मध्ये सन्धिकार्याणि येभ्यः सूत्रेभ्यः सिद्धानि, तानि सूत्राणि अपि प्रदर्शितानि। इदम् आहत्य श्लोकानां, सूत्राणां, पदानां च मध्ये यत् जालकर्म निर्मितं, तत् अधोदत्तम्।
अस्मिन् प्रकल्पे साहाय्यं कर्तुं प्रसक्तिः अस्ति चेत् श्लोक-पृष्ठान् गत्वा संशोधनानि प्रेषयन्तु